Sri Radhayaah Parihaar Stotram श्री राधायाः परीहारस्तोत्रम्

Sri Radhayaah Parihaar Stotram || श्री राधायाः परीहारस्तोत्रम् ॥ त्वं देवी जगतां माता विष्णुमाया सनातनी । कृष्णप्राणाधिदेवि च कृष्णप्राणाधिका शुभा ॥ १॥
कृष्णप्रेममयी शक्तिः कृष्णसौभाग्यरूपिणी । कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥ २॥ अद्य मे सफलं जन्म जीवनं सार्थकं मम । पूजितासि मया सा च या श्रीकृष्णेन् पूजिता ॥ ३॥…