कृष्ण मन्त्र :: विष्णु मन्त्र Krishna Mantra & Slokas

कृष्ण मन्त्र (Krishna Mantra)

ॐ क्लीं कृष्णाय गोविंदाय गोपीजन वल्लभाय स्वाहा ।
***
वसुदेव सुतं देवं कंस चाणूरमर्दनं ।
देवकी परमानंदं कृष्णं वंदे जगद्गुरुं ॥
***
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥
***

कृष्ण गायत्री मन्त्र

ॐ देवकी नन्दनाय विद्महे वासुदेवाय धीमहि,
तन्‍नो कृष्णः प्रचोदयात्‌ ।

***

विष्णु मन्त्र (Vishnu Mantra)

ॐ नमो नारायणाय ।
***
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं ।
लक्ष्मीकांतं कमलनयनं योगिभिध्यार्नगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
***

द्वादशाक्षर विष्णु मन्त्र

ॐ नमो भगवते वासुदेवाय ।
****

24 Naam Mantra of Shri Krishna

श्रीकेशवाय नमः । नारायणाय नमः । माधवाय नमः ।
गोविंदाय नमः । विष्णवे नमः । मधुसूदनाय नमः ।
त्रिविक्रमाय नमः । वामनाय नमः । श्रीधराय नमः ।
हृषीकेशाय नमः । पद्मनाभाय नमः । दामोदराय नमः ।
संकर्षणाय नमः । वासुदेवाय नमः । प्रद्युम्नाय नमः ।
अनिरुद्धाय नमः । पुरुषोत्तमाय नमः । अधोक्षजाय नमः ।
नारसिंहाय नमः । अच्युताय नमः । जनार्दनाय नमः ।
उपेन्द्राय नमः । हरये नमः । श्रीकृष्णाय नमः ।
***

श्रीभागवतसूत्र

आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥
Astrology Service

You Might Also Like:

1 Comment

Leave a Reply


*

Enable Google Transliteration.(To type in English, press Ctrl+g)
More in Hinduism, Mantra, Stotra & Stuti, Shri Krishna Janmashtami 2011 (106 of 381 articles)